मुख्यपृष्ठम्

शास्त्रीयलेखाः

ब्राह्मणम् मेदिनीकोशानुसारं वेदभागसूचकोऽयं ब्राह्मणशब्दः नपुंसकलिंगे प्रयुज्यते। यथोक्तं –“ ब्राह्मणं ब्रह्मसंघाते वेदभागे नपुंसकम्” इति। भट्टभास्करमतानुसारं- “ ब्राह्मणं नाम कर्मणस्तन्मन्त्राणां च व्याख्यानग्रन्थः” इति। वाचस्पतिमिश्रः लिखति- नैरुक्त्यं यस्य मन्त्रस्य विनियोगः प्रयोजनम्।

प्रतिष्ठानं विधिश्चैव ब्राह्मणं तदिहोच्यते ॥ यज्ञकर्मकाण्डस्य विस्तृतव्याख्या येन क्रियते सः ब्राह्मणग्रन्थ इत्युच्यते। ब्राह्मणग्रन्थः यज्ञानां, वैज्ञानिकाध्यात्मिकाधिभौतिकमीमांसानां प्रतिपादकः विश्वकोश इति वलदेवोपाध्यायेनोक्तम्। सायणमतानुसारं यः परम्परानुसारं मन्त्रः न भवति स ब्राह्मणः। शतपथब्राह्मणानुसारं – ब्रह्म वै मन्त्रः। (अधिकवाचनाय »)



आधुनिकलेखः

वाताटमयं गगनम्

अन्ताराष्ट्रियवाताटोत्सवः मकरसङ्क्रमणदिने गुजरातराज्ये आचर्यमाणः विशिष्टः, सुप्रसिद्धश्च उत्सवः अस्ति । यस्मिन् दिने भगवान् सूर्यः मकरराशिं प्रविशति, तस्मिन् दिने भारते मकरसङ्क्रान्त्युत्सवः आचर्यते । सूर्यस्य मकरराशौ प्रवेशः मकरसङ्क्रमणम् इत्युच्यते । अतः मकरसङ्क्रान्तिः इति नाम । । (अधिकवाचनाय »)




वार्ताः

संस्कृतवार्ताः
संस्कृतविकिपीडिया
  • उत्तराखण्ड-राज्ये संस्कृत-आयोगस्य स्थापना

​22 जुलाई 2026 तमे दिनाङ्के उत्तराखण्ड-राज्य-सर्वकारेण संस्कृत-भाषायाः प्रवर्धनाय 'संस्कृत-आयोगः' इति स्थापयितुं निर्णयः कृतः। अस्य आयोगस्य उद्देश्यं संस्कृत-शिक्षणस्य, अनुसन्धानस्य, प्राचीन-पाण्डुलिपीनां डिजिटल-करणस्य, भारतीय-ज्ञान-परम्परायाः तथा च एआई-क्षेत्रे संस्कृतस्य उपयोगस्य वर्धनम् अस्ति। मुख्यमन्त्रिणा पुष्कर-सिंह-धामिना 10 अगस्त 2026 पर्यन्तं विदूषां परामर्शः आहूतः।

​* प्रधानमन्त्रिणा एक्स-मञ्चे संस्कृत-सुभाषितं प्रेषितम्

​21 जुलाई 2026 तमे दिनाङ्के भारतस्य प्रधानमन्त्रिणा नरेन्द्र-मोदिना एक्स-मञ्चे एकं संस्कृत-सुभाषितं प्रकाशितम्। अत्र तेन एकाग्रतायाः सङ्कल्प-शक्तेः च महत्त्वं प्रतिपादितम्। "एकाग्रताथ सङ्कल्पः स्नायुवद् वर्द्धनक्षमौ। नित्याभ्यासप्रयोगाभ्यामधिकाधिकमृध्यतः॥" इति श्लोकम् उद्धृत्य तेन स्पष्टं कृतं यत् निरन्तराभ्यासेन एव मनुष्यस्य सङ्कल्प-शक्तिः वर्धते।

​* अस्ट्रेलियादेशस्य एडिलेड-नगरे पैसिफिक-संस्कृत-सम्मेलनम्

​20 जुलाई 2026 तमे दिनाङ्के अस्ट्रेलियादेशस्य एडिलेड-नगरे बीएपीएस श्रीसहजानन्दस्वामिमन्दिरे पञ्चदिवसीयं पैसिफिक-संस्कृत-सम्मेलनम् आयोजितम्। अस्मिन् सम्मेलने अस्ट्रेलिया-न्यूजीलैंड-देशाभ्यां सार्धत्रिशताधिकैः प्रतिनिधिभिः सहभागिता कृता, येषु 292 छात्राः आसन्। अत्र बीएपीएस सहजानन्दस्वामि-अनुसन्धान-संस्थानेन प्रचालितानाम् अन्तर्जालीय-संस्कृत-पाठ्यक्रमाणां महत्त्वं प्रदर्शितम् अस्ति। अनेन सम्मेलनेन संस्कृत-भाषायाः प्रसारः सञ्जातः।

अद्यतनं सुभाषितम्

यथा धेनुसहस्रेषु वत्सो विन्दति मातरम्।
तथा पुराकृतं कर्म कर्तारमनुगच्छति ॥

सु.भा. - दैवाख्यानम् (९५/१२)

सहस्राधिकाः धेनवः सन्ति चेत् अपि वत्सः तासु धेनुषु स्वमातुः एव समीपं गत्वा तामेव अनुसरति। तथा एव अस्माभिः पूर्वजन्मनि कृतानि कर्माणि अस्मान् अनुसरन्ति एव।